|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.9. अध्यायः 009
Mahabharata - Vana Parva - Chapter Topics
व्यासेन धृतराष्ट्रंप्रति पुत्रस्नेहस्य दुस्त्यजत्वे दृष्टान्तत्वेन सुरभ्युपाख्यानाख्यानपूर्वकं कौरवाणां जीवितस्य पाण्डवैः सह शमाधीनत्वाभिधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
धृतराष्ट्र उवाच। 3-9-0x(1791)(15961)
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्।
मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ॥ 3-9-1(15962)
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ॥ 3-9-2(15963)
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ 3-9-3(15964)
व्यास उवाच। 3-9-4x(1792)
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते ॥ 3-9-4(15965)
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्। 3-9-5(15966)
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम्।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते ॥ 3-9-6(15967)
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ॥ 3-9-7(15968)
इन्द्र उवाच। 3-9-8x(1793)
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ॥ 3-9-8(15969)
सुरभिरुवाच। 3-9-9x(1794)
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ 3-9-9(15970)
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्।
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ॥ 3-9-10(15971)
`एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप।'
कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ॥ 3-9-11(15972)
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम्।
अपरोप्यबलप्राणः कृशो धमनिसंततः।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ 3-9-12(15973)
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ 3-9-13(15974)
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ 3-9-14(15975)
शक्र उवाच। 3-9-15x(1795)
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
किं कृपायितवत्यत्र पुत्र एको निपीड्यते ॥ 3-9-15(15976)
सुरभिरुवाच। 3-9-16x(1796)
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा ॥ 3-9-16(15977)
व्यास उवाच। 3-9-17x(1797)
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ 3-9-17(15978)
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम्।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ 3-9-18(15979)
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ॥ 3-9-19(15980)
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ 3-9-20(15981)
चिराय तव पुत्राणां शतमेकश्च भारत।
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः ॥ 3-9-21(15982)
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ 3-9-22(15983)
यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ 3-9-23(15984)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि नवमोऽध्यायः ॥ 9 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-9-5 सुरभ्या देवधेन्वा ॥ 3-9-7 अन्वकृपायत अनुकम्पितवान् ॥ 3-9-9 कौशिक हे इन्द्र ॥ 3-9-10 प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ॥ 3-9-12 धुरं भारम्। धमनिसंततः शिराभिर्व्याप्तः। निर्मांस इत्यर्थः ॥ 3-9-13 वधो दण्डाघातेन। तोदः प्रतोदेन ॥ 3-9-15 कृपायितवती कृपांकृतवती। पुत्र एको निपीड्यते बहुषु पुत्रेषु एकः कश्चित् निपीड्यत एवेत्यर्थः ॥ 3-9-18 उल्वणं उत्कटम् ॥ 3-9-21 मन्दा- त्वत्पुत्रवत्कपटानभिज्ञाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|