(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.9. अध्यायः 009
Mahabharata - Vana Parva - Chapter Topics
व्यासेन धृतराष्ट्रंप्रति पुत्रस्नेहस्य दुस्त्यजत्वे दृष्टान्तत्वेन सुरभ्युपाख्यानाख्यानपूर्वकं कौरवाणां जीवितस्य पाण्डवैः सह शमाधीनत्वाभिधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

धृतराष्ट्र उवाच। 3-9-0x(1791)(15961)
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्।
मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ॥ 3-9-1(15962)
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ॥ 3-9-2(15963)
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ 3-9-3(15964)
व्यास उवाच। 3-9-4x(1792)
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते ॥ 3-9-4(15965)
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्। 3-9-5(15966)
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम्।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते ॥ 3-9-6(15967)
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ॥ 3-9-7(15968)
इन्द्र उवाच। 3-9-8x(1793)
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ॥ 3-9-8(15969)
सुरभिरुवाच। 3-9-9x(1794)
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ 3-9-9(15970)
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्।
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ॥ 3-9-10(15971)
`एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप।'
कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ॥ 3-9-11(15972)
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम्।
अपरोप्यबलप्राणः कृशो धमनिसंततः।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ 3-9-12(15973)
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ 3-9-13(15974)
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ 3-9-14(15975)
शक्र उवाच। 3-9-15x(1795)
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
किं कृपायितवत्यत्र पुत्र एको निपीड्यते ॥ 3-9-15(15976)
सुरभिरुवाच। 3-9-16x(1796)
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा ॥ 3-9-16(15977)
व्यास उवाच। 3-9-17x(1797)
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ 3-9-17(15978)
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम्।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ 3-9-18(15979)
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ॥ 3-9-19(15980)
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ 3-9-20(15981)
चिराय तव पुत्राणां शतमेकश्च भारत।
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः ॥ 3-9-21(15982)
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ 3-9-22(15983)
यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ 3-9-23(15984)

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि नवमोऽध्यायः ॥ 9 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-9-5 सुरभ्या देवधेन्वा ॥ 3-9-7 अन्वकृपायत अनुकम्पितवान् ॥ 3-9-9 कौशिक हे इन्द्र ॥ 3-9-10 प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ॥ 3-9-12 धुरं भारम्। धमनिसंततः शिराभिर्व्याप्तः। निर्मांस इत्यर्थः ॥ 3-9-13 वधो दण्डाघातेन। तोदः प्रतोदेन ॥ 3-9-15 कृपायितवती कृपांकृतवती। पुत्र एको निपीड्यते बहुषु पुत्रेषु एकः कश्चित् निपीड्यत एवेत्यर्थः ॥ 3-9-18 उल्वणं उत्कटम् ॥ 3-9-21 मन्दा- त्वत्पुत्रवत्कपटानभिज्ञाः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.